महर्षेः दयानन्दसरस्वत्याः गुरुः गुरुविरजानन्दसरस्वत्या: जन्मस्थल्यां करतारपुरस्थः गुरुविरजानन्दगुरुकुलमहाविद्यालयः विगतेभ्यः नैकेभ्यः वर्षेभ्यः संस्कृतजगति कार्यं कुर्वन् वर्तते । इदं विज्ञाय अत्यन्तं प्रसन्नतामनुभवाम्यहं यत् गुरुकुलमहाविद्यालयस्यास्य नैकाः उत्तमोत्तमाः स्नातकाः संस्कृतजगति स्वीयां सेवां कुर्वाणाः वर्तन्ते ।
एवञ्चाग्रिमनूतनशैक्षणिकसत्राय 2023-24 तमाय प्रवेशं स्वीकर्तुम् इच्छुकेभ्यः ब्रह्मचारिभ्यः मार्गदर्शिकायाः प्रकाशनं गुरुकुलेनानेन क्रियते । तदर्थमहं नूतनसत्रेऽस्मिन् पुण्यधरायामस्या संस्कृतजगति नवागन्तुकानां बह्मचारिणां हार्दिकं स्वागताभिनन्दनं च करोमि । अत्रत्यामुत्तमव्यवस्थाहेतवे अहं गुरुकुलस्य प्रधानः श्रीध्रुवकुमारमित्तलः तथा च गुरुकुलस्य यशस्वी प्राचार्य डॉ० उदयन आर्य इत्येताभ्यां विशेषाभारं प्रकटयामि यदिमौ द्वाभ्यां सम्भूय निरन्तं संस्थामिमामग्रे नयन्तौ वर्तेते चापि संस्कृतकार्यं कुर्वन्तौ स्तः । अहं सर्वेभ्यः पौनपुन्येन साधुवादा प्रयच्छन् सर्वेषां विद्यार्थिनां समुज्ज्वल भविष्यं कामये इति शम् ।
प्रो. श्रीनिवास वरखेड़ी
कुलपति केन्द्रीय संस्कृत विश्वविद्यालय (दिल्ली)